Kāṭhaka Sandhyāvidhi
Note: The manual has been created using Animesh Nagar’s Blog on Kāṭhaka Sandhyāvidhi. So special thanks to him for posting it on the internet.
नमस्कारः
Section titled “नमस्कारः”श्री महा गायत्र्यै नमः सवित्र्यै नमः सरस्वत्यै नमः॥
ॐ प्रणवस्य ऋषिः ब्रह्मा, गायत्रं छन्द एव च।
देवोऽग्नि व्याहृतिषु च, विनियोगः प्रकीर्तितः ॥प्रजापते र्व्याहृतयः, पूर्वस्य परमेष्ठिनः।
व्यस्ताश्चैव समस्ताश्च ब्राह्मक्षरमोमिति॥
(गायत्री पढ़ते हुए शिखा (छोग) पर पानी छिड़कें)
आत्मानश्चापः परिक्षिप्य
(नमस्कार करके
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं … पढ़ते हुए पानी से अपनी आलत निकालें)
(अञ्जलि धरते हुए पढ़ें)
ओजोऽसीति गायत्रीमावाह्य देवानामार्षम्।
ओजोऽसि सहोऽसि बलमऽसि भ्राजोऽसि देवानां धाम नामासि।
विश्वमऽसि विश्वायुः सर्वमऽसि सर्वायुरभिभूः॥
प्राणायाम
Section titled “प्राणायाम”प्राणायाम निम्नलिखित दस प्रणवों से करें
ॐ भूः1 ॐ भुवः2 ॐ स्वः3 ॐ महः4 ॐ जनः5 ॐ तपः6 ॐ सत्यं7
ॐ8 तत्सवितुः वरेण्यं, भर्गो देवस्य धीमहि, धियो योनः प्रचोदयात्
ॐ9 आपो ज्योति रसोऽमृतं ब्रह्मभूर्भुवः स्वरोम्10॥
प्रातः की तीन आचमन करना-
ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्।
यद्रात्र्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु ।
यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ॥
मध्याहन की तीन आचमन करना-
ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम्।
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा।
(तीन आचमन करना)
सायं की तीन आचमन करना-
ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्।
यदह्ना पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु।
यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा।
(यह मन्त्र पढ़ कर तीन बार ॐ का उच्चारण करते हुए तीन आचमन करें)
मार्जन
Section titled “मार्जन”अपने आप के इर्द गिर्द पानी छिड़कें (यह मन्त्र पढ़ते हुए)
(हृदय पर) आपो हिष्ठा मयोभुवस्ता न
(पैरो पर) ऊर्जे दधातन,
(सिर पर) महे रणाय चक्षसे।
(ललाट पर) यो वः शिवतमो रस
(पादो पर) तस्य भाजयते हनः।
(हृदय पर) उशतीरिव मातरः
(ललाट पर) तस्मा अरंगमाम वो
(हृदय पर) यस्य क्षायाय जिन्वथ।
(पादों पर) आपो जन यथा च नः ॥
ॐ शन्नो देवीरऽभीष्टय आपो भवन्तु पीतये, शंय्योरभि स्रवन्तु नः ॥
दधिक्राव्णो अकारिषं जिष्णोरष्वस्य वाजिनः।
सुराभि नो मुखाकरत्प्रण आयूषि तारिषत् ॥
बायें तरफ तीन आञ्जलियां सूंग कर छोड़ना
ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव।
पूतं पवित्रेणेवाऽज्यमापः शुन्धन्तु मैनसः॥
पानी में हाथो से तीन ‘आवर्तन’ (पानी को अपने आप पर छिड़कना) करें
ॐ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत। ततो रात्र्यजायत। ततः समुद्रो अर्णवः। समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधद्विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो स्वः।
प्राणायाम
Section titled “प्राणायाम”(सिर पर पानी छिड़कते हुए पढ़ें)
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॥
(तीन आचमन करना)
ॐ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम्॥
(3 बार)
प्राणायाम् करना-
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुः वरेण्यं, भर्गो देवस्य धीमहि, धियो योनः प्रचोदयात् ॐ आपो ज्योति रसोऽमृतं ब्रह्मभूर्भुवः स्वरोम्॥
(प्राणायाम के बाद सूर्य के संमुख तीन जल अञ्जलि छोड़ना)
उपस्थान
Section titled “उपस्थान”ॐ विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम्।
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति॥
विष्णु का ध्यान
Section titled “विष्णु का ध्यान”समयानुसार यहाँ वेदों की 16 ऋचायें पढ़े
सहस्रशीर्षेः च सहस्रनेत्रम्, सहस्रबाहुं च सहस्र पादं
समस्त यज्ञै परिपुष्मिादाध्म्, तं वासुदेव शरणं प्रपद्ये।
शिव जी का ध्यान
Section titled “शिव जी का ध्यान”समयानुसार यहाँ यत्जाग्रतो… के 6 ऋचायें पढ़े
चन्द्राङ्कं युग्मपादं शितिगलमुदधिं, श्री मुख विश्ववर्ण, षट्स्कन्धं सूर्य बाहुं।
दिनकर कमलं। शून्यषद् वहि पूर्वम्। पादाभ्यां माररूद्री रवि शशिहुतभुक्
मण्डलैभ्राम्यमानं, लीलाक्रान्तीन्तमेकं त्रिभय भयहरं कालचक्रं नमामि।
उपस्थान करनाः
Section titled “उपस्थान करनाः”अथ य एष एतस्मिन्मण्डले, पुरुषो यश्चैव हिरण्यमयः पुरुषः ।
अथ य एष एतस्मिन्मण्डले, पुरुषोऽयमेव सोयं दक्षिणेऽक्षन्पुरुषः ॥
“शुक्रियं रूद्रस्य”।
य उदगात्पुरस्तान्महतो अर्णवाद्विभ्राज मानः सरिरस्य मध्ये।
स मामृषभो रोहिताक्षः सूर्यो विपश्चिन् मनसा पुनातु ।
यद्ब्रह्मा अवादिष्म तन्मा मा हिंसीत्सूर्याय विभ्राजाय वै नमो नमः ॥
अ नाभौ।
उ हृदि।
म शिरसि॥
भूः पादयोः।
भुवः हृदि।
स्वः शिरसि॥
ॐ भूः अङगुष्ठा भ्यां नमः।
भुवः तर्जनी भ्यां नमः॥
स्वः मध्यमा भ्यां नमः।
महः अनामिका भ्यां नमः।
जनः कनिष्ठिका भ्यां नमः।
तपः सत्यं करतल करपृष्ठा भ्यां नमः॥भूः पादयोः।
भुवः जान्वोः।
स्वः गुहये।
महः नाभौ।
जनः हृदि।
तपः कण्ठे।
सत्यं शिरसि॥ॐ भूः हृदयाय नमः।
भुवः शिरसे स्वाहा।
स्वः शिखायै वौषट्।
महः कवचाय हूँ।
जनः नेत्राभ्यां वोषट्।
तपः सत्यमऽस्त्राय फट्॥
तत्सवितुः अङ्गुष्टा भ्यां नमः।
भर्गो देवस्य मध्यमा भ्यां नमः।
वरेण्य तर्जनीभ्यां नमः।
धीमहि अनामिका भ्यां नमः।
धियो योनः कनिष्ठका भ्यां नमः॥
प्रचोदयात् करतल करपृष्ठा भ्यां नमः।तत् पादयोः।
सवितुः जान्वोः।
वरेण्य कटयां।
भर्गो नाभौ।
देवस्य हृदये।
धीमहि कण्ठे।
धियो नासिकाया।
य श्चक्षुषो।
नः ललाटे।
प्रचोदयात् शिरसि॥तत्सवितुः हृदयाय नमः।
वरेण्यं शिरसे स्वाहा।
भर्गो देवस्य शिरवायै वौषट्।
धीमहि कवचाय हूँ।
धियो योनः नेत्राभ्यां वौषट्।
प्रचोदयात्ः ऽस्त्राय फट्॥ॐ आपः स्तन्योः।
ज्योतिः नेत्रयोः।
रसो मुखे।
अमृतं ललाटे।
ब्रह्मभूर्भुवः स्वरों शिरसि॥
गायत्री की मुद्राऐं
Section titled “गायत्री की मुद्राऐं”तत् समाय नमः। स संपुटाय नमः। वि वितताय नमः। तुः विस्तीर्णाय नम। व द्विमुखाय नमः। रे त्रिमुखाय नमः। ण्य चतुर्मुखाय नमः। अ पञ्च मुखाय नमः। भ षणमुखाय नमः। र्गो अधोमुखाय नमः। दे व्यापक आञ्जलये नमः। व शकटाय नमः। स्य यमपाशाय नमः। धी ग्रन्थिकायै नमः। म संमुखोन्मुखाय नमः। हि विलम्बाय नमः। धी मुष्टिकायै नमः। यो मीनाय नमः। यो कूर्माय नमः। नः वराहाय नमः। प्र सिंहाक्रान्ताय नमः। चो महाक्रान्ताय नमः। द मुद्गराय नमः। यात् पल्लवाय नमः।

प्राणायाम करना।
Section titled “प्राणायाम करना।”संकल्प छोड़ना (एक पात्र से पानी निर्माल पात्र में डालते हुए पढ़ना)
अस्य श्री महा गायत्री शापोद्धार मन्त्रस्य विश्वामित्र ऋषिः, विष्टार पक्ति गायत्रं छन्दः, सविता देवता, शापोद्धारे विनियोगः।
ॐ ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः।
अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑॥ 10 बार ॥ इति ऋग्वेदे ॥ॐ हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒त पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥ 10 बार ॥ इति यजुर्वेदे ॥ॐ आवायव्य यावायव्या यान्योर्वायायवः ॐ हरोसि पाप्मानं मे विद्धि ॥ 10 बार ॥ इति सामर्वेदे ॥
सोऽहम् अर्कः परं ज्योतिस्त्वं मात्म-ज्योतिर् अहं शिवः।
आत्म-ज्योतिर् अहं सूर्यः सर्व-ज्योती-रसोप्यहम् ॥
सुभद्रा पावनी सुधा गायत्री विश्वभषेजम्। विशापामेनां कृत्वा यथास्तं विपरीतन ॥ 10 बार ॥ इति अथर्ववेदे ॥
(संकल्पसे एक पात्र से निर्माल्य-पात्र में पानी डालना यह मंत्र पढ़ते हुए)
तत्सवितुरिति मन्त्रस्य विश्वामित्र ऋषिः, गायत्रं छन्दः, सविता देवता, आत्मनो वाङ्मनः-कायोपार्जित-पापनिवर्णार्थं नित्य-कर्म-निमित्तं चतुर्वर्ग-सिद्धयर्थे महा-गायत्री-जपे विनियोगः॥
गायत्री का ध्यान करना
Section titled “गायत्री का ध्यान करना”मुक्ता विद्रुम हेम नील धवलच्छायै मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्न मुकुटां, तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश करां, शूलं कपालं गुणं
शङ्खं चक्रमथार बिन्दुयुगलं हस्तैर्वहन्तीं भजे॥आगच्छ वरदे देवि, त्र्यक्षरे ब्रह्मवादिनि।
गायत्रिच्छन्दसां मातर्ब्रह्मयोने नमोस्तुते ॥ 3 बार
ओंकारं पूर्वमुच्चार्य व्याहृतीस्तदन्तरम्।
गायत्रीं प्रणवं चान्ते जप एवमुदाहृतम्।
ॐ भूः भुवः स्वः तत्सवितुः वरेण्यं, भर्गो देवस्य धीमहि, धियो योनः प्रचोदयात्॥
ॐ आपो ज्योति रसोऽमृतं ब्रह्मभूर्भुवः स्वरोम्॥
108 बार (if time allows)
आठ मुद्रा (Postures) दिखाना
Section titled “आठ मुद्रा (Postures) दिखाना”सुरभिः ज्ञान-चक्रे च योनिः कूर्मोथ पङ्कजम्। लिङ्गं निर्याणकं चैव ह्यष्टौ मुद्राः प्रकीर्तिताः॥

प्राणायाम करना।
Section titled “प्राणायाम करना।”(हाथ जोड़ कर पढ़ें)
दशभिर्जन्मचरितं, शतेन च पुरा कृतम्।
त्रियुगोत्थं सहस्रेण, गायत्री हन्ति किल्बिषम् ॥
तर्पण करना
Section titled “तर्पण करना”देवा गातु श्रोत्रियाः। देवा गातुविदो, गातुं वित्वा गातुमित
मनसस्पत इमं देवयज्ञं स्वाहा, वाचे स्वाहा वाते धाः।
References
- Vishwas Vasuki’s Article on the same.